________________
[३११
-प्रदीप चन्द्रस्वरो न सप्तम्यां, प्रातःकाले च दृश्यते । म्रियते गेहिनी तस्य, विज्ञेयं स्वर ज्ञानतः ॥२०२॥ चन्द्रस्वरो न चाष्टम्यां,प्रातःकाले च दृश्यते । अत्यन्त दैहिकी पीडा,जायते च सुखं न हि॥२०३॥ चद्रः स्वरश्च दृश्येत, तदा शारीरिक सुखम् । भाग्योदयस्य प्राबल्यं,वर्षपर्यन्त सौख्यकम् ॥२०४॥ अथ जनेन केनाऽपि, प्रश्न श्चागत्य तन्यते । चन्द्रस्वरे च कं पृथ्वीतत्त्वं, पूर्ण च दृश्यते ॥२०॥ प्रश्नकत्तु स्तदा तस्य, कार्यसिद्धि प्रजायते। तेजोऽनिले च खं तत्त्वं,चन्द्रस्वरेषु दृश्यते ॥२०६॥ प्रश्नकर्त्तस्तदा चैव, कार्यसिद्धिन जायते । पृथ्वीजलस्थिरे कार्ये, चन्द्रस्वरे प्रशान्तिके ॥२०७॥ चरकाय नो ज्ञेयं, इतिसर्व-व्यवस्थितम् । तेजोऽनिले चव्योमानि,चरकार्याय सन्ति वै ॥२०॥ रोगिजनस्य प्रश्नं च, आगत्य केनचिद्यदि । तस्य श्वासविचारेण, उत्तरं प्रविधीयते ॥२०॥
१-जलं ।