________________
[३१०]
योगअपरे स्वरतत्त्वे च फलं, स्यादधमं तथा । सिध्यति च फलं तस्य,मध्यमं निश्चयं भवेत्॥१९॥ परीक्षा सर्वसद्भावे, मेषभावे बलीयसी । तदिने तत्त्वदृष्टव्ये, फलं ज्ञेयं दृढं हृदि ॥१४॥ अद्यतने प्रदृष्टश्च, विचारः परिकथ्यते । स्वहृदि विलिख्य स्वान्ते,स्वरविचारतां भजेत्॥१६॥ प्रतिपच्चैच शुद्धस्य, तत्र शशि स्वरो नचेत् । तदा तस्य त्रिमासेषु, अत्युद्वगः प्रजायते ॥१९६॥ चैत्रमासे द्वितीयायां, चन्द्रस्वरश्च नो चलेत् । गतिस्तस्य विदेशे, स्याद्दुःखं तत्रैव जायते ॥१९७॥
चैत्रशुक्लतृतीयायां, चन्द्रस्वरस्य शून्यतः। पित्त ज्वरादिकं सर्व, जायते नात्र संशयः ॥१६॥ नवमासे च मृत्युः स्याद्यति,स्वरोऽपि ज्ञायते । चैत्र शुक्ल चतुर्थ्यां च,चन्द्र स्वरो न भासते॥१६६ नवमासे च मृत्युः, स्यादृष्टं च स्वरवेदिना । पञ्चम्यां तदभावेन, राजदण्डश्च जायते ॥२००॥ षष्ट्यां चन्दस्वराभावे, वर्षमध्ये च तस्यवै। बन्धुमृत्युः प्रजायेत, दृष्टव्यं ज्ञानिना सदा ॥२०१॥