________________
[ ३०८ ]
१
मधुमासोज्वले पक्षे; प्रतिपदि तिथ्यादिके । लग्नविचारता शुद्धा; संचारे स्वतत्त्वतः ॥ १७६॥ तस्य वर्णोपि ज्ञातव्यः, स्वरतत्त्वानुसारतः । प्रातःकाले स्वरेचन्द्र, पृथ्वी तत्त्वं भवेद्यदा ॥ १७७॥ तत्फलं तु तदो ज्ञेयं सर्वदा सुखदायिता । मेघवृष्टिर्भवेत्तत्र, सुखशान्तिप्रदा सदा ॥१७८॥ समयः सुन्दरो ज्ञेयः; राजप्रजासु हार्दिकः । सन्तोषो हर्षपूर्णश्च; ईतिभीतिर्न विद्यते ॥ १७६ ॥ चन्दस्वरेक्षतत्त्वस्य, फलं तु कथितं मया । प्रातःकाले स्वरे चन्द्र, जलतत्त्वं भवेद्यदा ॥ १८०॥ सुभिक्षसमयस्तत्र, वर्षा सर्वत्र जायते । शान्तिः पुष्टिर्भवेद्दार्थ्या, धर्मे रागोदृढो भवेत् ॥ १८२॥ भव्यस्वान्ते च ज्ञातव्यः, बाहुल्यं दानपुण्यके । जलं पृथ्वी च तत्त्वे द्वे', यदि सूर्यस्वरेच ते ॥१८२॥ समयोमध्यमस्तत्र, प्रातःकाल स्वरे फलम् । राजभङ्गः प्रजापीडा, नभस्तत्त्वं स्वरे यदा ॥ १८३॥ १- क्षिति तत्वस्य ।
योग
-