________________
योगविंशतिपलपर्यन्तं, वायुतत्त्वंतु सञ्चरेत् । दशपलत्वपर्यन्तं, नभस्तत्त्वंतु सम्मतम् ॥१५८॥ अध्यर्धद्विघटी चैव, एकस्वरे विज्ञायताम् । एवं च पञ्चतत्वानां, अहोनिशि प्रचारता ॥१५॥ लिखेत्स्वरेषु तत्त्वं वै, यः कोऽपिभिन्नरूपतः । काल समय विज्ञानं, वर्षदिवसमानकम् ॥१६०॥ प्रथममेषसंक्रान्तेः, प्रवेशो जायते यदा । तदा तत्त्वं विचार्यैव,श्वास स्थैर्य विधीयते ॥१६१॥ पृथ्वीतत्वस्य यश्चैव,प्रकाशोः नामतः स्वरे । मुख्ययोगस्तदा ज्ञेयः, यस्य फलं निगद्यते ॥१६२॥ प्रजासु सुखप्राचुर्य, समयश्चोत्तमो भवेत् । धान्योत्पत्तश्च बाहुल्यं पशूनां सुख शान्तिता॥१६३॥ ईतिभीतिभवेन्नैव; जनदृद्धिश्च जायते । इत्येवं श्रेष्टता तस्य,नृपाणां सुखशान्तिकम्॥१६॥ अपतत्वं च तदा तत्र; शशिस्वरेषु संचरेत् । फलं तस्यतु विज्ञेयं,स्थिर चित्तेन श्रूयताम् ॥१६॥ वैपुल्यं मेघवृष्टः स्या; दन्नं चोत्पद्यते खलु । प्रजासु सुखसर्वस्वं, जायते नात्रसंशयः ॥१६६॥