________________
mmm
-प्रदीप
[३०५] द्विस्वरे पञ्चतत्त्वानां, ज्ञानेन वर्णमानको । आकारकाल साफल्यं,ज्ञायते नात्र संशयः ॥१४६॥ पृथ्वीजलाग्निवाताश्च, आकाशं पञ्चमं मतम् । . पृथ्वीजलाधिपश्चन्द्रः,अन्येषां च पती रविः॥१५०॥ पीतश्वेतहरिद्रक्त, श्यामवर्णाश्च पञ्चधा । पञ्च तत्त्वेषु विज्ञयाः, अनुक्रमेण ते तथा ॥१५१॥ सम्मुखं सञ्चरेत्पृथ्वी, दूरतो द्वादशांगुलम् । समचतुरस्राऽऽकारः घाणतः सन्मुखं तथा ॥१५२॥ घ्राणतोऽधो विभागं च, जलं च षोडशांगुलम् । आकृतिवर्तुला तस्य,चन्द्रस्य सादृशी मता ॥१५३॥ घाणत उर्ध्वदिक्षु च, सञ्चरेत्तत्वपावकम् । चतुरंगुलता तस्य, आकारो बालभास्करः ॥१५४॥ तिर्यक् चरतिवातोऽपि, अष्टांगुलं च घ्राणतः। ध्वजासमानताऽऽकारैः ज्ञेयं तत्त्वचतुर्थकम् ॥१५॥ नाशा सम्पुटस्थानेषु, चलेन्न बाह्यभासता। श्यामवर्णश्च तस्य,स्यान्नभस्तत्त्वं च पञ्चकम्॥१६॥ पञ्चाशत्पलपर्यन्तं, पृथ्वीतत्वं च सञ्चरेत् । चत्वारिंशज्जलं तत्त्वं,त्रिंशत्पलं च पावकम् ॥१५७॥