________________
[ ३०४ ]
योग
,
विरलाः संसृती ज्ञेयाः, रोगशोकादिवर्जिताः । शरीरे शक्तिप्राचर्य, वर्धते च दिने दिने ॥१४०॥ यो हि निश्चलचित्तेन, ध्यानमाराधयेत्सदा । तस्याल्पाहार नैरोग्यं प्रत्यहमुपयोगता ॥ १४१ ॥ जायते नात्र खंदेहः, कथितं ज्ञान भानुना । नासाग्रभागहरधृत्वा कृत्वाऽथवा द्विसम्पुटम् ॥ १४२॥ हृत्पद्म योऽपि ध्यायेत, सिद्धचक्र स्वरूपकम् । तस्य स्वभावतो, ध्यानमतिरायाति स्पष्टतः ॥ १४३॥ मायाबीजेन सयुक्तं, प्रणवं प्रथमं मतम् । । वर्णबीज गुणज्ञानान्नादवर्ण स्थिरत्वतः स्थिरस्वरः प्रजायेत, लक्ष्याग्रे नादता ततः । तस्य प्रकाशता स्वान्ते, जायते गुरु योगतः ॥ १४५॥ प्राणायामं च सम्पूर्ण कथितु ं नैव शक्यते । स्वल्पज्ञानं च स्वल्पायुः, मादृशैः कथ्यते कथम् ॥ १४६॥ नाममात्रेण किञ्चिच्च, प्रोक्तं स्वरमहोदधौ । भूमयो दशसङ्ख्याकाः, प्रथमं च स्वरोदयः ॥ १४७ ॥ परप्रकाशता रूपं स्वरं, जानाति यो जनः । पञ्चतन्त्वानि जानीया, द्विचाराशयपूर्वकम् ॥ १४८ ॥
॥ १४४॥