________________
-प्रदीप
[३०३] अमूर्तः चिन्मयः शुद्धः, निराकारो निरञ्जनः । सिद्धशः स्मयतेयत्र, रूपातीतं तु कीर्तितम्॥१३॥ प्राणायामे च कर्तव्ये, पिण्डस्थं ध्यानसम्मतम् । समागमं मनोवाय्वोः,ज्ञात्वा वायुच साधयेत्॥१३२॥ ततो निजगृहे स्वान्तं, आनयति च बुद्धिमान् । तत्र निरन्तरां प्रीति, कारयेदधिकाऽधिकाम् ॥१३३॥ योगानलं च स्व स्वान्ते,करोति जागृति तथा। शुभासनं मिताऽऽहारं, दृढ़भावेन तन्यते ॥१३४॥ चक्षुा च त्यजेन्निद्रा, भिन्नतां जीवदेहयोः । जानीयात्स्वर्णपाषाण, वत्कथंचिच्च वा शुचिः॥१३॥ भेदनयेन तद्द ष्टिं, स्थापयेद्हृदये किल । तत्र शङ्कां परित्यज्य,निश्चयतो दृढ़तां भजेत्॥१३६॥ कार्यप्रसङ्गतो वक्ता वदति, स्तोकमात्रकम् । अधिकं न वदेत्किञ्चि,न्निरवद्य वचोऽपि तत् ॥१३७॥ स्वप्नवत्संमृति विद्यादेह, धनं च यौवनम् । सर्वमसाररूपं च, जानीयात्संमृतौ सदा ॥१३८॥ जिनवाणीं दृढ़ां स्वान्ते स्थापयेच्छुद्ध भावतः।। रसं ध्यानानुसम्भूतं,योगीन्द्र एव स्वादते ॥१३६॥