________________
-प्रदीप
[३०१] अरण्यं नगरायेत, शत्रुमित्रायते किल । विषं चामृतता, भूयाद्वरं च समतायते ॥११३॥ व्यवहारेण सद्ध्याना, हवेन्द्रत्वं च प्राप्यते । निश्चयतः सुध्यानाच, मोक्षरूपं फलं भवेत् ॥११॥ सुखाऽऽनन्त्यं च जायेत, साद्यनन्तं च तत्रवै । कर्माष्टकं क्षयं कृत्वा, प्राप्नोति परमपदम् ॥११॥ स्युानानि हि चत्वारि प्रोक्तानि जैनशासने । रूपस्थं च पदस्थं च, पिण्डस्थं रूपवर्जितम् ॥११६॥ स्वगुणांशं च तयानं, लभेत प्रथमं तदा । स्वरूपभेदताऽऽद्यस्य, कथिता स्वरशास्त्रके ॥११७॥ विकाररूपतां त्यत्तवा, निर्विकारे स्थितः सदा । मनसा सङ्गतिस्तस्य, क्रियते सुखहेतवे ॥११८॥ तीर्थकृत्पदप्राधान्यं, अनन्त गुण हेतुकम् । तद्गुणध्यान भावेन,प्राप्यन्ते चात्मसद्गुणाः॥११॥ पदस्थध्यानता ज्ञेया, पिण्डस्थं परिदर्श्यते । दुरात्मा क मलीनोऽहं,क शुद्धः परमेश्वरः ॥१२०॥ क कर्माष्टविनिमुक्तः, क कर्मग्रथितो जनः । शुद्धरूपः पराज्योतिः, काशुचिरपवित्रकः ॥१२१॥