________________
[२९६]
योगसाधनता च वायूनामतः, कारणात्सम्मता । धर्मसाधनदेहस्य, स्वास्थ्यं चैव ततो भवेत् ॥६६॥ स्वस्थशरीरसम्बन्धा, हर्गुणानाञ्च त्याजने । शीघ्र मनः प्रवर्तेत; प्राणायामस्तु भावतः ॥७॥ जायते नैव सन्देहः, आत्मशुद्धेश्च साधने । गुणानां पूरणे चैव, दुर्गुणानाच त्याजने ॥७॥ सर्वगुणमयश्चैव, आत्मा योगेन जायते । अतोहि रेचकादीनां, परम्परा च हेतुता ॥७२॥ भावतः प्राणधामस्य, हेतुता चात्मशुद्धिके । द्रव्यतो रेचकादीनां, देहशुद्धौ च हेतुता ॥७३॥ गुणानामेकताऽऽदाने, एकता परिजायते । निजयोगे च तल्लीने, लीनता परिकथ्यते ॥७॥ लीनदशा बहिर्भावा, त्समाधित्वस्वरूपके । निश्चयतः स जीवात्मा, स्वामी शिवपुरस्य वै ॥७॥ स्वरख्याति स्थिरी भावे, स्वल्पकं कर्षणं न वै । मूलबन्धे दृढी भावे, बीजसञ्चारता भवेत् ॥७६॥ देहे पश्चापि वातास्युः, प्राणसमान नामकौ । अपानोदान व्यानाश्च, ज्ञातव्या गुरुयोगतः ॥७॥