________________
-प्रदीप
[२६५] सर्वोत्तमगुणानां च, प्रवेशे भावपूरकः । दुर्गुणानां च निष्कासे, गुणानां च प्रवेशने ॥३०॥ सर्वथा गुणवत्त्वं स्या, त्कदाचिद्दे व योगतः। वायुस्थिरत्व कर्तव्ये, कुम्भको द्रव्यतो मतः ॥३१॥ वैराग्याभ्यासद्वारेण, गुणस्थैर्य यदा भवेत् । भावकुम्भकता तत्र, अन्यथा नाममात्रतः ॥३२॥ वायूनां च प्रवेशेन, कश्चात्मनि गुणो भवेत् । पुद्गलरूपता वायोः, आत्मनि च निरूपता ॥३३॥ द्वयोश्चनैव सम्बन्धः, केनापि रूपतो भवेत् । अतः कथं द्वयोश्चैवं, मीलनं परिसम्भवेत् ॥६॥ किमुद्दिश्य च वायूनां, प्रोक्तात्मशुद्धिहेतुता। शङ्कायाश्च समाधानं,प्रोच्यते जैनशास्त्रतः ॥६॥ जैनेतरीय-शास्त्रेषु, समाधानं न विद्यते । विचारः सूक्ष्मश्चैव, कृतः केनापि नो कदा ॥६६॥ द्रव्यरेचकवायूनां, देहे सम्बन्धता मता। वायुशुद्धप्रवेशेन, शरीरे स्वस्थता भवेत् ॥६॥ आसनादिक योगाङ्ग, विना शरीरयोगतः । कदापि सम्भवेन्नैव, अतः स्वस्थत्व सिद्धये ॥६॥