SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ [ २६४] योगप्रत्यहं ध्यानताऽभ्यासे, मनः स्थैयं तु चेद्भवेत् । तदाऽनुभव लेशं च, अद्य प्रामोति कश्चन ॥५२॥ स्वानुभवस्य लेशेन, कठिनं कर्म नश्यति। अल्पभवे स भव्यात्मा,सिध्यति नात्र संशयः॥५३॥ व्यवहारानुसारेण, ध्यानभेदो न कथ्यते । पृथक्पृथक्स्वरूपेण, कथने ग्रन्थवृद्धिता ॥५४।। अष्टौ भेदाश्च योगस्य, प्राणायामश्चतुर्थकः । तस्य सप्तप्रभेदाः स्युः, सकलसिद्धिदायकाः ॥५५॥ रेचकपूरके ज्ञेये, कुम्भकश्च तृतीयकः । शान्तिकसमते ज्ञेये, एकता लीनता तथा ॥५६॥ द्रव्यभावप्रभेदेन, रेचकादेश्च भिन्नता। देहस्थाशुद्धवायूनां, निष्कासने तु रेचकः ॥५७॥ हिंसाऽसत्यादि पापानां, कषायाणां तथैव च । दुर्गुणानाञ्च निष्कासे,रेचको भावतो मतः ॥५॥ शुद्धवायुप्रवेशेन, पूरको द्रव्यतः किल । दयासत्यादि भावानां, क्षमामार्दववस्तूनाम् ॥५६॥ १-रेचको द्रव्यतोभवेद् ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy