________________
- प्रदोष
[२३]
चतुः षडष्ट द्विः सप्त दशद्वादश स्युस्तथा । समाक्षराणि ज्ञायन्तां, चन्द्रस्य हि तदानि च ॥४४॥ एक त्रिपञ्चसप्तत्वं, नर्वेकादशसंख्यका | अक्षराणां च ज्ञातव्याः, विषमरूपयोगतः ॥४५॥ सूर्ययोगस्य ज्ञेयानि, विषमान्यक्षराणि च । स्वरं प्रश्नाक्षरं चैव, विज्ञाय निर्णयः खलु ॥ ४६ ॥ सर्वलौकिक कार्याणि त्यक्त्वा ध्याने दृढो भवेत् । श्रवणमननादीनां
करणे स्वरज्ञानता ॥ ४७॥
प्राणायामं तु योगाङ्ग, स्थिरचित्तेन साधयेत् । प्रथम भूमिकाः तस्य, स्वरोदयस्तु ज्ञायताम् ||४८ || प्राणायामविचारश्च कठिनः सर्वदा मतः ।
,
द्वौ भेदौ तस्य विज्ञेयौ, निश्चय व्यवहारजौ ॥४६॥ स्वरूपे च स्वरूपेण, लीनो निश्चयतो भवेत् । सञ्चरेच्च यथाश्रेणि, सयोगी कुशलो मतः ॥५०॥
क्षपकोपशमे श्रेणी, कथिते जैन शासने । तयोः कालाद्यभावेन, साधना नैव विद्यते ॥ ५१ ॥ १ – चन्द्रस्वरस्य ।