________________
योग
[ २२ ]
"
सम्मुखे वामके चोर्ध्वं दिविस्थते नैव पृच्छयते । तदा तु चन्द्रयोगश्चे, त्कार्यसिद्धी न संशयः ॥ ३५ ॥ दक्षिणस्यामधश्चैव, पश्चिमायां स्थितेन वै । पृच्छयते सूर्य, योगश्चेत्कार्य सिद्धिर्भवेद्ध्रुवम् ॥ ३६ ॥ वामेतरे च स्थित्वा वै, सूर्यस्वरेषु पृच्छयते । लग्नवार तिथेर्योगे, मीलने कार्यता भवेत् ॥ ३७॥ वामेतरे च स्थित्वानु, प्रश्नः प्रासङ्गिको भवेत् । पूर्णश्चन्द्रः स्वरस्तत्र, कार्यसिद्धिस्तु जायते ||३८|| वामेतरे च स्थित्वा वै चन्द्रस्वरेण पृच्छयते । रवि तत्त्वतिथिर्वान्विना, कार्यं भवेत्कथम् ॥३६॥ अधः पश्चात्स्थितः कोपि, प्रश्नश्चागत्य पृच्छयते । उदयश्चन्द्रतायाश्चेत्फलं किञ्चिन्न जायते ॥ ४० ॥ स्थित्वा वामेतरे भागे, सूर्यस्वरेण पृच्छयते । चन्द्रयोगं विना तस्य, कार्यसिद्धिर्न सम्भवेत् ॥४१॥ सन्मुखोर्ध्वदिशां स्थित्वा, सूर्यस्वरेण पृच्छयते । चन्द्रयोगं विना तस्य, कार्यसिद्धिर्भवेन्न हि ॥४२॥ समाक्षराणि चन्द्रस्य, विषमानि रवेः सदा । तेषां सङ्ख्या विधानाय पद्धतिः परिदर्श्यते ॥४३॥
O