________________
--प्रदीप
[२६१] चन्द्रतिथौ स्वरः सूर्यः, यदि प्रकाश्यते तदा। कायपीडा च संक्लेशः, वित्तनाशश्च जायते ॥२६॥ सूर्यतिथिदिने प्रातः, चन्द्रस्वरश्च ज्ञायते । राजभयादि संक्लेशः,स्वान्ते चञ्चलता भवेत्॥२७॥ प्रतिपदि द्विपक्षाणां, सुषुम्नायाः स्वरो भवेत् । न लाभो हानिता नैव, भवेदत्र न संशयः ॥२८॥ सिंह वृषभ वृश्चिकाः,कुम्भश्चैताश्च राशयः । चन्द्रस्वरस्य विज्ञेया, कथ्यन्ते च पुना रवेः ॥२६॥ अन्यथा कार्यकर्त्तव्ये, हानिर्भवति सर्वथा ॥३०॥ कर्क मकर तूलाश्च, मेष एताश्च राशयः। तत्सूर्य योगसद्भावे, चरकार्य प्रशान्तिदम् ॥३१॥ मीनमिथुनकन्याश्च, धनमेताश्च राशयः। द्विस्वाभावाश्च विज्ञेयाः, कार्ये हानिप्रदा मताः॥३२॥ चन्द्र सूर्यस्य ये मासाः, स्वरशास्त्रे प्रकाशिताः। प्रथग्रूपेण विज्ञेयाः, राशिवर्गित भास्करात् ॥३३॥ कोऽपि प्रश्न विधानाय, आगतः शुभभावतः । पृच्छकश्च दिशायाश्च, विचारः खलु कथ्यते ॥३४॥