________________
mammmwwwwwwwwwwwwwwwwwwwwwwwwwwr
[२८६ ]
योगकेवलिकवलाहारः, स्त्रीशूद्रमुक्तिवर्णनम् ॥४२१॥ यथायोग्यं च चच्र्येत, अन्यदपि प्रसङ्गजम् । अथमूर्ति प्रस्तावेषु, काचिद्विशेषता मता ॥४२२॥ द्वेधा श्वेताम्बरे मूत्तिः प्रोक्ता शास्त्रानुसारतः। विशुद्धजिनकल्पं च, आश्रित्य तादृशीमता ॥४२३॥ स्थविरकल्पसद्भावे, मन्यते नहि तादृशी । व्यवहारोऽपिलोकोत्तरो, गृह्यते सुयोगतः ॥४२४॥ एकतो निश्चयो ज्ञेयः, व्यवहारोऽपि चान्यतः। नयद्वयानुसारेण, व्यवस्थाजैनशासने ॥४२५॥ रथयात्रादिकं सर्व, व्यवहारेणयुज्यते । केवलं निश्चयं चैव, मन्यन्ते ये भवादृशाः ॥४२६॥ तेऽपि मिथ्यात्विनो,ज्ञेया व्यवहारस्य लोपनात् । नयद्वयीं समाश्रित्य, कार्यं कुर्वन्ति ये जनाः ।४२७॥ ते जैनशासने मान्याः, अन्ये शासन बाह्यकाः । दिगम्बरीयशास्त्राणां, आचाराणां तथैवच ॥४२८॥ कवलाहारा भुक्तीनां, विचारेच्छा प्रजायते । विशेषावश्यग्रन्थीय, टीका प्रभृति ग्रन्थके ॥४२६॥
१-गृहस्थ साधूनामाचाराणां ।