________________
-प्रदोप
[२८५] बीतरागस्य भक्तानां, रागद्वेष प्रधानता ॥४१२॥ जलादग्निः समुत्थितः, तादृशोन्याय आगतः। कपाय शान्तिमिच्छूनां, कपायस्य प्रधानता ॥४१३॥ सुखशान्त्यै क स्थानेषु,गन्तव्यं वद बालिश। कषायक्षय कर्त्तव्ये, वस्त्राणां विघ्नता मता ॥४१४॥ चारित्रोपगृहाणां च, रक्षणे च कषायता। वस्त्राणां त्याजने चापि,कषायो नैव त्याजितः॥४१॥ तेषामज्ञानभाजांव, नाग्न्ये फलं न सम्भवेत्। कषाय कारणं वस्त्रं, मत्वा नग्ना धरातले ॥४१६॥ विहरन्तीति बुद्धयापि, त्याजिता न कषायता। किन्तु कषाय बृद्धिश्च, नग्नाटेषु च दृश्यते ॥४१७॥ न हि सम्यक्त्व लेशोऽपि मुनिपंडितव्यक्तिषु । बाबूपार्टिषु काचिञ्च, मन्दता केषु दृश्यते ॥४१८॥ व्यर्थकोलाहलं कृत्वा, ते मीलत्यपितेषु वै। मूर्तिपूजा प्रसङ्ग च, प्रासङ्गिकं च वर्णितम् ॥४१६॥ अजितानां च ग्रन्थावै, अत्र वर्णनकारणम् । न हि द्वेपत्वसद्भावः, किन्तु यथा स्वरूपकम् ॥४२०॥ यादृग्दृष्टं श्रुतं यस्मा, तादृशमत्र वर्णितम् ।