________________
[२८०]
योग
शौचाथ जल याचा च, ते रात्रावपि साधुभिः । कमण्डलू प्रपूयँव, जलमानीय स्थाप्यते ॥३६६॥ सायङ्काले समायं च,क्रियते तैश्च साधुभिः । प्रातःकालेऽपि तादृक् च,तन्यते सुखमिच्छुभिः॥३७०। विचारोऽत्रैव कर्तव्यः,दीक्षाकाले कृतञ्चकिम् । चारित्राणाश्च पञ्चानांमध्ये किं स्वीकृतं तदा ॥३७॥ यावज्जीवश्च तत्किंवा, किंवा चेत्वरकालिकम् । प्रोच्यते चेत्वरं कालं, गृहिणां तर्हि कीदृशम् ॥३७२॥ इत्वरीयं गृहस्थानां, साधूनामपि तादृशम् । गृहि मुनिषु भेदो न, भवदीयमते मतः ॥३७३॥ यावज्जीवश्च कथ्येत, गृहीतं च समायकम् । तहि सायं प्रभाते च, समायं क्रियते कथम् ॥३७४॥ द्वि सन्ध्यायां च, षडावश्यकं तु करणं मतम् । सम्मूर्छिमेष ताहक्सा,प्रणालिः प्रपलायिता ॥३७॥ व्युच्छिन्ने जिन,कल्पेऽपिजिनकल्पित्व कल्पना । द्विकालं प्रतिक्रान्तिश्च, द्विकालं प्रतिलेखनम् ॥३७६॥
2-वितन्यते २–सामायिक क्रियते ।