________________
-प्रदीप
__ [२७६] तेषां मते च, साधूनामाचारः प्रणिगद्यते। . दिशावस्त्रं च येषां, ते दिगम्बरास्तु कीर्तिताः।३६०॥ दिगम्बरा गृहस्था नो, वस्त्राणां धारणे सति । क्षुल्लकैलकब्रह्मत्वचारिणो, न दिगम्बराः ॥३६॥ विंशतिः किन्तु संख्यानां, मुनीनां गदिताः खलु। ते च दिगम्बराः स्युर्वं, अन्ये चनामधारिणः ॥३६२॥ भवन्ति मुनयो नग्नाः केचिञ्चलन्ति पादतः। केचिश्च धूम्रयन्त्रेषु,आरुह्य यान्ति ते जनाः॥३६॥ जय कीर्त्यादि साधुश्च, पद्भ्यां विहृत्यचागतः । बलिवर्दद्विगन्व्यौ च, गृहस्थाः पञ्चविंशतिः॥३६४॥ श्राविकासप्तसङ्ख्याकाः अन्येच श्रावका मताः । तैः सह शुभ यात्राय, सम्मेताचल आगतः ॥३६॥ कमण्डलु मयूराणां, पिछानां गुच्छकं तथा । विग्रहमानकं चैव, स्थूलं बृहत्कटासनम् ॥३६॥ धान्यानां तृणमाच्छाद्य, उपरि च कटासनम् । सघनवस्त्रकुट्यां च, शयनं जयकीर्तीनाम् ॥३६७॥ सगृहं दीपकं चैव, रात्रौ पार्वे च धारयेत् । अग्निकायस्य संस्पर्शः, रात्रौ तैर्न निषेधितः॥३६८॥