________________
[२७८]
योगचन्दनादिकपूजायाः, अभावे ज्ञापनं तथा। मिथ्यारोपस्य सद्भावे, गतिः कीदृग्भविष्यति॥३५१॥ नैक पैटासु मातृत्वरूपेण, कल्पना कृता । कुत्रचिच्च कदाचिच्च, दृष्टं केन न तादृशम् ॥३५२॥ नाभिराजादि भूपानां,राज्ञोपेटा न सम्भवेद् । किमुद्दिश्य च नग्नाटे, तादृशी कल्पना कृता॥३५३॥ गर्भापहरणं चैव, श्वेताम्बरैन गोपितम् । आश्चर्य मन्यते तत्र, नग्नाटैश्च विनिन्दितम् ॥३५४॥ नूतनशास्त्रकर्त्तव्ये काले, निष्कासितं च तैः । प्राचीनशास्त्रमन्तृभिः, श्वेताम्बरैर्न गोपितम् ॥३५॥ अधुना कुशला वैद्याः, कुर्वन्ति तादृशी क्रियाम् । देवानां तादृशे कार्ये, कर्तव्ये किमुचित्रता ॥३५६॥ पेटास्वनेकमातृत्व, पितृत्वेनैव कल्पिते । मत्तव्येऽपि न लज्जा,स्यादजितादिजैनस्यवै ॥३५७॥ बहु दोषाश्च नग्नाटे, इदानीमपि दृश्यते । तथापि परकीयांश्च, दोषां दृष्ट्वा च रज्यते ॥३५८॥ अदुष्टे दोषितारोपः, झटिति तेन तन्यते । दिगम्बरेण शास्त्रे च, श्वेताम्बरस्य सर्वदा ॥३५॥