________________
-प्रदोप
[२७७ एवं च वीतरागाणां, गृहाणि क्रियन्ते त्वया । क भवन्ति अनागाराः,गृहे च विद्यमानके ॥३४२॥ अनागारेषु सागारभावोऽपि नैव युज्यते । सागारिता गृहेणैव, तदाऽनगारता न वै ॥३४३॥ जिनगृहं कथं तर्हि, निर्माप्यते दिगम्बरैः । वीतरागगृहं नैव, युज्यते युक्तियुक्ततः ॥३४४॥ अस्मन्मते तु तादृक् च, दोषावकाशता न हि । पञ्चकल्याणकादीनां, आरोपस्य च सम्भवात्॥३४॥ भक्ति भाव विधानाय, स्थापना तत्र तन्यते । वीतरागत्वमेकं च केवलं, तु भवन्मते ॥३४६॥ भक्तिभाव विधानाय, भवद्भिर्यदि मन्यते । तदाऽन्येषां कथं, दोषाऽऽरोपणं क्रियते त्वया।।३४७।। अतस्तादृश कर्तव्ये, दोषलेशो न युज्यते । केवल वीतरागीयाँ, दशां यों मन्यते सदा ॥३४८॥ तेषांमते न युज्येत, जिनगृहविधापनम् । तथैव रथयात्रादि, युज्यते न कदाचन ॥३४६॥ चन्दनपुष्पपूजायां, नैवेद्य धूप दीपके । फलाऽऽरात्रिक कर्त्तव्ये,मृषावादो महान्भवेद् ॥३५०।