________________
[ २७६ ]
योग
दीक्षा स्वीकरणात्पश्चाद्रथं, कदापि नारोहद् । रथयात्रा किमुद्दिश्य, ईशस्य क्रियते च भोः ॥ ३३३॥ दीक्षा ग्रहणकार्याय, रथमारुह्य गच्छति । नग्नो भूत्वा तदातत्र, न रथारोहणं कृतम् ||३३४|| रथाssरोहोऽपि यत्काले, वस्त्रालंकारसंयुतः । तदा तत्र न नग्नत्वं अधुना नग्नता कथम् ॥ ३३५॥ भवन्मतेऽपि दीक्षां वै, आदाय त्याजितं समम् । प्रागवस्थासु नैवं तन्मुञ्चति परमेश्वरः ॥ ३३६॥ कया भावनया गन्त्री, आरोहयेत्प्रभुं तदा । त्यागावस्थासु, स्यन्दनारोहणं नैव युज्यते ॥ ३३७॥ अत्यागभाव कालेषु, न नाग्नै रथरोहणम् । रथारोहोऽपि केनापि प्रकारेण न युज्यते ॥ ३३८ ॥ वदन्ति केsपि नग्नाटा, त्वन्मन्दिरं न सुन्दरम् | वीतरागत्वसद्भावः, दर्शकं नैव विद्यते ॥ ३३ ॥ तदपि नैव युज्येत मन्दिरं तस्य नो भवेत् । वीतरागा अनगाराः, चागारैरैहिता सदा ॥ ३४० ॥ इदं शीतलनाथस्य, महावीरप्रभो रिदम् । इदं श्रीशान्तिनाथस्य, इदं चन्द्रप्रभोश्च भोः ॥ ३४१ ॥