________________
- प्रदाप
[ २७५ ]
केचित्तत्रैव नृत्यन्ति गायन्ति केऽपि सज्जनाः । नाटकं केsपि कुर्वन्ति, हावभावपुरःसरम् ॥ ३२४॥ काल्पनिकाः समे देवाः, लोकान्तिकाश्च शास्वतम् । कुर्वन्ति स्वीयमाचारं वदन्ति प्रभु सम्मुखे ॥ ३२५॥ जयनन्देति पूर्वञ्च, जयभद्रेति घोषणाम् । कुर्वन्ति च प्रभो तीर्थं, प्रवर्त्तय वदन्ति ते ॥ ३२६॥ जगज्जीव प्रबोधाय दीक्षां गृहाण तीर्थप । इत्येवं सर्वे सम्मील्य, कुर्वन्ति याचनां तदा ॥ ३२७॥ नृदेवेशैश्च सम्मील्य, दीक्षोत्सवो विधीयते । अनेकराजपुत्रैश्च, दीक्षा तैः सह गृह्यते ॥३२८॥ दीक्षां लात्वा रथारोहं कृत्वा विहरणं भवेत् । रथे संस्थाप्य नग्नाटैः, विहारः कार्यते विभोः ॥ ३२६॥ दीक्षां श्वेताम्बरे प्राप्य, पद्भयां विहरणं सदा । नतु रथेषु संस्थाप्य, विहारः कार्यते कदा ||३३०|| कौचित्तु पितरौ भूत्वा दत्तश्चाहारशुद्धकम् । गृहीत्वा प्रभुराहारं गच्छन्त्यन्यत्र स्थानके ॥ ३३१॥ प्रभूणां कल्पनाऽन्यस्यां व्यक्तौ यदा विधीयते । तां व्यक्तिं जगदीशंच, मत्वा क्रिया वितन्यते ॥ ३३२ ॥
,