SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [२७३] लविङ्गादि प्रभूणाच, ढौकने, किंफलं भवेद् । वातरोगश्च जातो न, येनोपशमता भवेत् ॥३०६॥ किं बुध्या ढौकते तच्च, तादृशं च स्फुटंबद । कल्पितानि च शास्त्राणि,तवेति मन्यतेमया।३०७१ सत्यप्रकाशपत्रे च, युक्तियुक्त्या विचारितम् । अतस्ततोऽपि ज्ञातव्यं,सत्यजैनत्वकांक्षिणा ॥३०॥ तथैव धूपदीपाक्षत, नैवेद्यफलादिषु । मृषावादप्रकारश्च, सर्वत्र परिचिन्त्यताम् ॥३०॥ पञ्चकल्याणकादौ च, क्रियन्ते च समाः क्रियाः । तस्या निरन्तरंकार्ये,दोष दृष्टिः कुतोभवेद्॥३१०॥ कल्याणकक्षणे चैव, नाटकं परितन्यते । रामलीलासमं ज्ञेयं, दयते तच्चलेशतः ॥३११॥ देवलोकात्परिच्युत्य, मातृगर्भेऽवतीर्यते। एषा ख्यातिश्च सर्वत्र ,नग्नाटानां न तादृशी ॥३१२ तेषां तु देवलोकाच्च, परिच्युत्य प्रभुस्तदा । अवतरति पेटायां, गर्भ पेटा तु धारयेत् ॥३१३॥ जडस्वरूपपेटायां येषां मातृत्वभावना। तेषांमते पितुश्चैव, किं जडो न निगद्यते ॥३१४॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy