________________
[२७०]
योगयेन राज्यादिकं सर्व, त्यक्तं च क्षणमात्रतः। तस्मिश्च वीतरागे वै,मोह सम्भावना कथम्।२८२॥ यावत्समयपर्यन्तं, तत्तिष्ठेत्तत्र ज्ञायताम् । सवस्त्रत्वं जिनेन्द्रेषु, अपयाने न वस्त्रता ॥२८॥ यथाऽऽहारनिहारौ च, चर्मदृस्टावगोचरौ। तथा चेश्वर नाग्न्यत्वं, अन्यैरपि न दृश्यते ॥२८४॥ मूल् नग्नत्वरूपं च, स्पष्टरूपेण लोक्यते । विरहिणां तु तद्दष्ट्वा ,दुर्भावना च मानसे ॥२८॥ अतएव च नग्नाटः, स्त्रीणांमोक्षो निषेधितः । तासां त्रैकालिकं लिङ्ग, दर्शनमनिवारितम् ॥२८॥ प्रातःकाले गुरोलिङ्ग, मध्याह्न देवलिङ्गकम् । विभावर्या पतेलिङ्ग पश्यन्ति प्रेमभावतः ॥२८॥ लिङ्गदर्शनतस्तासां, तद्भावो हृदि जायते । मोक्षाधिकारता तासां,स्वप्नेऽपि नहि तन्मते॥२८॥ अतो नाग्न्यं परित्यज्य, वीतरागाकृतिस्तथा। तादृग्मूर्तिर्विधातव्या,दृष्टृणां ध्यानपोषिका॥२८॥
१-जायते ।