________________
[२६८]
योगअमुलखर्षि सौभाग्यचन्द्रास्ते हेतवो मताः॥२६॥ स्वयं नष्टा परांश्चैव, नाशयति च सर्वथा । ततस्तेषां च शिक्षायै,लिखितं विन्दुमात्रकम्॥२६६॥ दिगम्बरीय पूर्व पक्षःनग्नाटा ईशमूर्ति च, मन्यन्ते दृढ़भावतः । पूजाऽऽकार विधानादौ,तेषां विभिन्न मान्यता॥२६॥ यादृशो जिन देहस्य, आकारश्च दिगम्बरे। तादृशाकारतस्तुल्या, मूर्ति जैर्नेश्वरी मता ॥२६॥ आकारस्थ विभेदे च, भावेषु भिन्नता भवेत् । अत आकारतस्तुल्या,मूर्तिरपि विधाप्यताम् ॥२६॥ यथा भगवतो देहः दृश्यते नग्न रूपतः । नग्नरूपैव सा मूर्तिः, मन्तव्या सर्वथा मता ॥२७०॥ भगवद्गुह्यचिह्न च, स्पष्टमेव विलोक्यते । तथा खङ्गासनी मृत्त्यां ,गुह्यचिह्नच कार्यताम्॥२७१॥ एतादृग्यदि मन्येत, तदास्मद्भिन्नता न हि । अन्यथा खलु कर्त्तव्ये,शास्त्रार्थश्च विधीयते ॥२७२॥ उत्तर पक्ष :अस्योत्तरं समीचीनं, प्रयच्छामि सुयुक्तितः।