________________
- प्रदीप
[ २६५ ]
तेषां स्त्रीणाञ्च सम्बन्धः, पूर्वमेव प्रदर्शितः ॥ २४९॥ ज्ञातव्या द्वेषिणश्चेमे, हस्ते शस्त्रस्य योगतः । यत्र शस्त्रस्य सम्बन्धः, तत्र द्वेषोऽपि सम्मतः २४२ यथेमे युद्धकर्त्तारः, तथा कृष्णादयो मताः । तेषां शस्त्रस्य सम्बन्धः, गत्वामूर्त्या विलोक्यताम् २४३ ज्ञातव्योऽयश्च पूर्णो, न हस्तस्थ जपमालतः । यदि सम्पूर्ण ज्ञानी, चेत्किमर्था जपमालिका || २४४॥ अपूर्णः परिपूर्णार्थं, ध्यायते जपमालया । तन्निमित्तेन चाल्पज्ञे, ध्यानकारणता भवेत् ॥ २४५॥ यदि सोऽपि प्रपूर्णः स्यात्किमर्थं ध्यानतां भजेत् । ध्यानकरणतो ज्ञेयः, अपूर्ण: सर्वथा खलु ॥ २४६ ॥
,
प्रोक्त चान्यत्र - रागोऽङ्गना सङ्गमतोऽनुमेयः,
द्वेषो द्विषद्दारणहेतिगम्यः ।
मोहकुवृत्तागमदोष साध्यः,
न यस्य एवं स एव चान् ॥२४७॥ यस्या मूर्त्याश्च हस्तादौ शस्त्र त्रिशूलकादीनाम् । सर्वथा नास्ति सम्बन्धः, सा मूर्त्तिर्वीतरागिणी । २४८