________________
-प्रदीप
[२६३] चिन्तयति निजे स्वान्ते, ध्यान कार्य न सुन्दरम् । अतो ध्यान न कर्त्तव्यं, मदोया मतिरीहशी।२२४॥ स्वरक्षायां समर्थो न, परान् कथं स रक्षयेत् । अतः संन्यासिता त्याज्या, इति कथं न प्रोच्यते२२५ यदि सत्या च वार्तेयं, शङ्करस्यापि तादृशी । यदेयं नैवसत्या स्यात्सापि वार्ता च तादृशी ॥२२६॥ मन्दिराणांच केषाश्चिदृष्ट्वाऽनाचरणं बहु । यूकापतनत्रासेन, वस्त्रं किं तेन त्यज्यते ॥२२७॥ वीतरागप्रसादे च, शुभध्यानं भवेत्सदा । तद्भयात्सर्व प्रासादः, न त्यक्तव्यः कदाचन ॥२२८॥ कश्यचिद्दरिद्रस्य, वस्त्रेषु पतिता यूका । मुक्ति निदानकं ध्यानालयं कथं तु त्यज्यते ॥२२६॥ वस्त्रायूकां परित्यज्य, वस्त्रमाच्छादनं वरम् । यत्रानाऽचारता दृष्टा, सा त्यक्तव्या त्वया सदा२३० वीतरागपरिज्ञानं, जायते द्विप्रकारतः । चरित्रपठनेनैव, मूर्तिदर्शनतस्तथा ॥२३१॥ सर्वज्ञ साधनेनैव, वीतरागस्तु दर्शितः । येषां वांचि विरोधो न, तत्र सर्वज्ञता मता ॥२३२॥