________________
wwwwwwwer
M
-प्रदीप
[२६१] पृच्छति हस्तमादाय, ममोपरि कथं त्वया । खुदाध्यानेषु लग्नस्य, पादं दत्वा द्रुतं गतम् ।२०६। क्षन्तव्यो मम रोषो हि, श्रूयतां मेऽपि वाचिकम् । ध्यानं त्वदीयमीशे नो, किन्तु लोकेषणाकृते।२०७। त्वयानं यदि सत्यं चे, त्तदाकारस्वरुपके । तदा कथं स सङ्कल्पः, भवत्येवं विचार्यताम् ।२०८। मम ध्यानंच कामेषु, लग्नं दृढं च सर्वथा । तव पीठेषु पादौ द्वौ, दत्वा च गमनं कृतम् ।२०६। न ज्ञातः किं महाराजः, रङ्को वाऽन्योऽथवा खलु । यस्य मनोऽत्र यद्धयाने, लग्नं कथं च ज्ञायते ।२१०॥ तव ध्यानं न देवेषु , दोषाणां किन्तु दर्शने। अतो ज्ञातंच मे पीठे, पादौ दत्वा च गच्छति २११ पादशाहेन तद्वाक्य, शिक्षा रूपेण मानितम् । बालादपि च सद्वाक्यं, ग्राह्य सर्व तु नैतिकम्।२१२॥ तदुपकारं निजे स्वान्ते, मन्यते स मुहुर्मुहुः । दुराचारश्च सा त्यक्त्वा, पादशाहोपदेशतः ॥२१३॥ शुद्धा कुलवती जाता, परस्परश्च ज्ञानतः। अतो हि तस्य भावार्थः, उपनयेन प्रोच्यते ॥२१४॥