________________
- प्रदोप
[ २५ ]
प्रस्तरं मकराणातः, आनीय शिल्पिभिः कृता । मनोहरे च बिम्बेन दृश्यते मानसे मम ॥ १६०॥ अतस्त्वां परिध्यायामि, अन्यथा न कदाचन । इत्येवं देव प्रासादे, गत्वा वाच्यं च सर्वदा ॥१६१॥ किन्तु कोऽपि न, कर्हि चिह्नवीति हिकदाचन । परन्तु हे : जगन्नाथ ! वीतराग शिवङ्कर !॥ १६२॥ एवं वदन्ति सर्वे वै गत्वा च जिनमन्दिरे । मोक्षार्थं क्रियते ध्यानं, मूर्त्ति पूजा कुतो मता ॥ १६३॥ किन्तु सन्मूर्त्तिद्वारेण, ईश्वरोऽत्र प्रपूज्यते । ईश पूजाऽप्यतो ज्ञेया, भाव्यतां परमार्थतः ॥१६४॥ समाचारं यथा किञ्चिज्ज्ञापयितुं विदेश के | इच्छेत्तदा च किं द्वारा, ज्ञाप्यतेऽत्र स्थितो जनः । १६५ । इति विचारे संजाते, मनस्येवं स्मृतं तदा ।
"
श्
यन्त्रद्वारा विना तारं, संदेश कंच प्रेष्यते ॥१६६॥ तथेश्वरस्य पूजादि, करणेच्छा गरीयसी । केन द्वारेण तन्येत, विचारो मानसे महान् ॥ १६७॥
१-- भाषायां रेडीओ इति गीयते ।