________________
-प्रदीप
[२५७] वीतरागं स्मरेद्योगी, वीतरागत्वमश्नुते । सरागं ध्यायतस्तस्य, सरागत्वं सुनिश्चितम् ॥१७२॥ दयानन्देन दृष्टान्तं, दत्तमेकं तु श्रूयताम् । कस्याश्चिच्छिव मूर्त्याश्च, उपरि शिव रात्रिके१७३ केनचिमूषकेनापि, निहारस्तु कृतस्तदा। रात्रिचतेन तत्रैव, जागरता विलोकितः ॥१७४॥ तदृष्ट्वा तेन स्व स्वान्ते, एवं विधं विचारितम् । स्व रक्षायां न यः शक्तः, पर रक्षातु ततः कुतः१७५ अतो मूर्ति ने मन्तव्या, इति मनसि निश्चितम् । ततो दीक्षां गृहीत्वा वै, निषिद्ध देव मन्दिरम् १७६ वने पर्वत स्थानेषु, महात्मा कश्चिदागतः। ध्यानमगोचरं तत्र, अकरोदात्मशुद्धये ॥१७७॥ तदा पक्षिण आगत्य, देहं तस्यातुदमुहुः । निहारश्च कृतस्तत्र, महात्मा मौनमास्थितः ॥१७॥ तन्निणे प्रयत्नं न, अकरोदपि कञ्चन । अतःकिंसोऽसमर्थस्यात्,ज्ञातव्योध्यानमिच्छुभिः१७६ वीतरागे मनोलीनं, यस्य शुद्ध स्वरुपके । तस्य महात्मनः किंचिद, देहस्य न प्रयोजनम् ॥१८॥