________________
[२५६]
योग--
येषां मते निराकारः, केवलमेक ईश्वरः। तेषां ध्यानादिकं सर्व, विनाध्येयं कथं भवेत् ।१६३ यथा किश्चिद्धनुर्धारी, समीपे ध्येय वस्तूनि । शरो हिलक्ष्य वेधार्थ, मुञ्चति स्वेष्ट सिद्धये ॥१६४॥ यदि साकार ध्येयं न, कुत्र शरः प्रमोचनम् । शरः क्रियासु नैष्फल्यं, धनुर्धारीषु जायते ॥१६॥ यदि पाश्वे शरो नो, ऽस्याद्विन्ध्यालक्ष्यं कथं तदा। लक्ष्य वेधन कार्याय, शरोऽपि चोपयुज्यते ॥१६६॥ तत्र नो चेद्धनुर्धारी, तदा किमपि नो भवेत्। अतस्त्रितय संयोगः, स्वेष्टकार्य समर्थकः ॥१६७॥ ध्याता ध्यानं तथा ध्येयं, जगति त्रितयं मतम् । अन्तरात्माचध्यातास्या, दध्यानं चैकाग्र सन्ततिः१६८ पिण्डस्थादिक ज्ञातव्यं, ध्येयं ध्यानं समिच्छता। ज्ञेयो ध्याता धनुर्धारी, अत्र ध्यानं शरः समम् १६६ लक्ष्यं ध्येयं तु विज्ञेयं, त्रिपुटी स्वेष्ट साधिका । विना ध्येयं स्वसामीप्ये, ध्यानं कस्य विधीयते १७० अतो ध्यानस्य सिद्ध्यर्थ, ध्येयमूर्तिरुदाहृता। ध्येये शुद्ध स्वरूपे च, ध्यानं शुद्धं प्रजायते ॥१७१॥