________________
-प्रदीप
[२५३] तद् दृष्ट्वा मानसे बोधः संस्कारः परिजायते। व्यक्तिञ्च सदृशीं दृष्ट्वा, संस्कारो द्वोधता भवेत्१३७ इयं गौरिति विज्ञेया, ज्ञानं जातं तदा हृदि । गोश्चिोणाऽपि सत्यागौः, सुज्ञाता मानसे तदा१३८ गोश्चित्रं यदि दृष्टं नो, गो विज्ञानं कुतो भवेत् । सत्य ज्ञानं भवेद्यस्मा, चित्रं तत्कारणं न किम्१३६ यदि मूर्त न मन्येत, तिस्रः स्त्रियः समागताः। माता पुत्री वधूश्चैव, स्न्याकृत्या च समानता१४०। समीपे चैकस्या गत्वा, भक्ति भावः प्रदर्श्यते । अन्या कांचिच्च दृष्ट्वा, स्त्री स्नेह रागः प्रवर्धते१४१ दृष्ट्वा पराश्च स्वश्चान्ते, काम रागः प्रजायते । तिमृणां दर्शने तुल्ये, भावेषु भिन्नता कथम् ॥१४२॥ यदि मूत्ति न मन्येत, भेद भावः कुतो भवेत् । स्थापनाऽतोऽपि मन्तव्या, तां विना कार्यतान वै१४३ मातृ बुद्धिः कृता यत्र, तत्रस्याद्भक्ति भावना। पुत्री बुद्धि कृता यत्र, स्नेह रागः प्रवर्धते ॥१४४॥ धर्मपत्नी मदीयेयं, इति यत्रैव तन्मतिः। यस्यां कृता च तत्रैव, कामरागः प्रजायते ॥१४॥