________________
[२४८]
योगपूज्य शिक्षा प्रदानाय, सम्यक्त्वं स्वीकृतं तया। ईशपूजनश्रद्धा सा, स्वान्ते दृढा च रक्षिता ॥६॥ केनापि नापगच्छेत्सा, आगच्छेन्नैव दानतः। अभव्याः किमुतिष्ठेयुः, ज्ञातं प्रलापमात्रकम् ॥६६॥ प्रत्यहं दर्शनं कर्त, समागच्छति स्थानके । तया सहापि पूज्यस्य,रागोजातो महान् हृदि ॥६॥ चातुर्मासे च सम्पूर्णे, पूज्यैरुत्थानकं कृतम् । सर्वे ग्रामजनाश्चैव, सन्मानार्थं गता पहिः ॥८॥ साऽपि विलावनार्थाय, वस्त्रादिकं निजं समं । गृहीत्वा सा गतोद्याने,मङ्गलं श्रावितं च तैः॥६६॥ प्रत्यागच्छन्ति श्राद्धास्ते, श्रुत्वा च मङ्गलं खलु । नागच्छति वधूटी सा,पृष्टे वदतिकारणम् ॥१०॥ दर्शनं पूज्यसाधूनां, विनाकृत्वा न भुज्यते । प्रतिज्ञाकारिता पूज्यैः कथं ग्रहे व्रजामिभोः ॥१०१॥ कुर्वन्ति विहृतिं पूज्याः, किं कर्त्तव्यंमया तदा । गृहे तिष्ठामि श्राद्धाश्चे,द्भोजनंक्रियतेकथम् ॥१०२॥
१-श्रद्धा।