________________
-प्रदीप
[२४७] प्रस्तरमूर्तिसिंहोऽयं, भक्षयेन्न कदाचन। तर्हि प्रस्तरमूर्तिः सा,स्वश्रु भो किं ददातिवः ॥८६॥ मूर्ते डस्वरूपायाः, पूजने किं प्रयोजनम् । पूजयेजडरूपं चे, पर्वतस्तर्हि पूज्यताम् ॥८॥ इति वधूवचोभिश्च, सर्वैस्त्यक्तं च पूजनम् । स्थानकवासिजातं यत्, सर्वं च तत्कुटुम्बकम् ॥८॥ ईशपूजनश्राद्धैश्च दत्त, दृष्टान्त तादृशम् । मूर्ति पूजक पुत्री च, दत्तामूर्ति विरोधिने ॥८६॥ सा स्वश्वा सहपूज्यस्य, वन्दनायैगताखलु । वधूटी नूतनां दृष्ट्वा, केयं पृष्टा च साधुभिः ॥१०॥ अस्मत्पुत्रवधूज्ञेया, मूर्ति पूजावलम्बिनी। श्रुत्वा पूज्यैश्च सम्प्रोक्तं,सम्यक्त्वं गृह्यतांदृढम्॥६॥ अत्र सम्यक्त्व शब्देन, ईशमूर्ति निषेधनम् । कृतं पूज्यैश्च ज्ञातव्यं, स्वमूर्ति परिपूजकैः ॥१२॥ संसारे च विना श्रद्धां, भ्रमन्ति बहवो जनाः। हृदि विशुद्ध श्रद्धानं, अस्ति पूज्यं तु पृच्छति ॥३॥ तव सम्यक्त्व स्वीकारे, कल्याणं मम किं भवेत् । कथितं निश्चितं पूज्यः, भवेदन न संशयः ॥४॥