________________
-प्रदीप
[२४१] सर्वत्र घोषणीयञ्च, ज्ञाप्यञ्च जनसम्मुखात् । तादृशपापकत्तूणां, अत्रेदृशो गतिर्भवेत् ॥३५॥ मषिलिखितपत्राणां, कथं सूत्रं च कथ्यते । ईशवाणी च सूत्रं स्याद्गता भगवता सह ॥३६॥ पञ्चत्रिंशद् गुणैराठ्या, वाणी भगवतो मता। लिखितेषु च सूत्रेषु,एको गुणोऽपिनो भवेत् ॥३७॥ योजनगामिनी वाणी, सूत्रं तु तादृशं न हि । वाणीरूपं कथं प्रोच्य, प्रतारयसि धूर्तराट् ॥३८॥ स्थापना भगवद्वाण्याः, यदि सूत्रेऽस्ति प्रोच्यते । भगवत्स्थापना तर्हि, मत्तौ कथं निषिध्यते ॥३६॥ स्थापना द्वय सादृश्ये एका मान्या परा न हि । भेदभावः कथं चैवं, प्रमाणं वद बालिश ॥ ४०॥ अभावेन प्रमाणस्य, नाद्रीयते वचोऽपि तत् । शून्यचित्तमनुष्याणां, प्रमाणं विद्यते कथम् ॥४१॥ अस्माकमनुमानश्च, युक्तिरपि प्रसिध्यति । आगमं च प्रमाणं स्यात्सुविदितं पदे पदे ॥४२॥ आगममूर्तिरूपत्वं, कथं तेन निषिध्यते। यदि निषिध्यते तहि, आगमं नैव कथ्यते ॥४॥