________________
wwwwwwromrnm
[२४.]
योगतथापि साधुबुध्यातं,वन्दन्ते ते जनाः कथम् ॥२५॥ यथाभिषिक्तराजादौ, राजत्व स्थापना कृता। यथा परिधृते वेषे, साधुत्वं स्थाप्यते जनः ॥६॥ यस्यां मूल् च यत्काले, प्रतिष्ठा विधिना कृता। मन्त्रेण स्थाप्यते देवः,वन्द्या मूर्ति स्तदा मता ॥२७॥ स्थाप्य स्थापक सम्बन्धाद्वन्द्या मूर्तिस्तथैव च। मूर्ति मूर्तिमतश्चैव, सम्बन्धः सदृशो मतः ॥२८॥ अतः पर्वतपाषाणः, वन्द्यो न सर्वथा मतः। मूर्तिर्वन्द्या जिनेन्द्रस्य, निर्विकारत्व-सूचिका ॥२६॥ ईशस्य मूर्ति नाम्नोश्च, जडत्वं सादृशं द्वयोः । एकं वन्य परं नैव, वक्तव्यं कारणं त्वया ॥३०॥ सम्बन्धान्नामधेयञ्च, वन्यमित्यपि नोचितम् । स तु मूल् च सत्त्वेन,कथंनो वन्द्यते त्वया ॥३॥ अतो वन्द्य त्वया ते द्व, त्याज्यते वा तथैव च । इति तर्कः सदैव स्यान्निषिद्धो लुम्पकैः कथम् ॥३२॥ मसिकूचं मुखे दत्त्वा, नगरद्वारसामीपे । पश्य स्व मूर्तिमन्तश्च, ईशमति निषेधकान् ॥३३॥ अतः पापामुखं बध्वा, प्रायश्चित्त-गवेषकाः। दर्शयन्ति कथं स्वास्यं,लुम्पकाः पापपोषकाः ॥३४॥