________________
[२३८]
योगतीर्थकृन्नामकर्मत्वं, येषां चोदयवर्तिता। ते भाव जिनदेवा स्युः, इति सर्व व्यवस्थितम् ॥८॥ देवाधिदेव सार्वस्य, मूर्ति नो मन्यते कति । अन्येषामपि सर्वेषां, मूर्तिस्तैरपि मन्यते ॥६॥ यावत्कालीन संसारः तावत्कालाकृतिर्मता। मूर्ति विना न केषाश्चित् कार्यसिद्धिश्च सम्भवेत्॥१० यां शाखाश्च समाश्रित्य, आरोहितुं प्रवर्तते । तां च्छेत्तुवर्तमानस्य, अधःपातो भवेद् ध्रुवम् ॥११॥ तथा ध्येयं समाश्रित्य, यो ध्यानेषु प्रवर्तते। ध्येयमूर्ति मन्तृ णां,गतिः कीदृग्भविष्यति ॥१२॥ ईशमूर्ति न मन्तारः, तेषां भावस्तु कीदृशः। इलाहलं विषं पीत्वा,तैलं पीवन्ति चोर्ध्वकम् ॥१३॥ चर्येते च प्रमाणेन, मूर्तिविषयमान्यता। युक्तिप्रमाणराहित्यं, नादेयं कस्यचिद्वचः ॥१४॥ केचिद्वदन्ति जाड्यन, मूर्तिर्वन्द्या कदापि न । यथा पर्वतपाषाणः, तथेयमपि भाव्यताम् ॥१५॥ ईश्वर इत्यभिख्यं च, स्मरणीयं न कर्हि चित् । १-तैलोपरि।