________________
॥ अथद्वादशम प्रकाशः ॥
वीतरागमूर्त्तिमण्डनप्रकारः मूर्तिद्वारा च कल्याणं, साधयन्ति समे जनाः । मूर्तिः सकल कार्याणां, भवेत्परमसाधिका ॥१॥ रागिमूर्ति समालोके, रागभावश्च जायते। द्वषिमूर्ति समालोके, द्वेषभावश्च मानसे ॥२॥ शान्तमूर्ति समालोके, त्यागिता प्रकटीयते । सार्वमूर्ति सुध्यानेन, द्वेषाभावस्तु सर्वथा ॥ ३ ॥ शुद्धालन्बनतः कार्यसिद्धिः शुद्धा प्रजायते । अशुद्धतश्च न शुद्धा, जायते नात्र संशयः ॥ ४॥ शुद्धालम्बनतश्चैव, आत्मशुद्धिः प्रजायते। शुद्धालम्बनरूपाय, वीतरागाय ते नमः ॥ ५॥ द्रव्यभावाभिधाऽऽकृत्या, ईशो ज्ञेयश्चतुर्विधः । नामसंज्ञाभिधा ज्ञेया, यथा च ऋषभादयः ॥ ६ ॥ आकृत्या प्रतिबिम्बं तत्, द्रव्येण कारणं मतम् । भूता जिना भविष्यन्ति,द्रव्यत्वेन प्रकीर्तिताः ॥७॥