________________
[ २३४ ]
योग
वस्तुगत्या विचारे च नास्तिकता तु तन्मते । जगत्कर्त्तृत्व शून्येऽपि, जगत्कत्तृ त्व माननम् ॥२३८| मिथ्या दोषप्रदानेन, कलङ्की कृत ईश्वरः । कलङ्कीश्वरमन्तृ णामास्तिक्यं वद कीदृशम् |२३| महामिधात्विनां तेषां वाग्नियमो न युज्यते ।
"
जैनानां सत्यवादीनामन्यथा त्वं कथं वदेत् | २४० ईश्वर कर्त्तृ वक्तारः, नैयायिकादयः खलु । अन्ये भाटि गृहीतारः, षदर्शन बहिर्भूताः ॥ २४१ ॥ प्रकृतिं सांङ्खयतो लात्वा, जीवमीशञ्च ह्यन्यतः | तत्त्वत्रितयमादाय, जाताश्चेमे समाजिनः ॥ २४२॥ जैना बौद्धाश्च सांख्याश्च, मिमांसकास्तथैव च । जगत्कर्त्तृत्व रूपेण, मन्यन्ते चेश्वरं न हि ॥ २४३ ॥ मिमांसकमते चैव, सर्वज्ञो नैव विद्यते ।
ईश्वरस्य तु मन्तव्ये, वार्ता तेषां मते न हि । २४४ | वीतरागश्च सर्वज्ञः सर्वदर्शी निरञ्जनः । जैनानामीश्वरो ज्ञेयः, अन्येषां न हि तादृशः ॥ २४५॥ तादृगीशस्य मन्तृणां, जैनानां युक्तिवादिनाम् । ईश्वरो नास्ति चैतेषां इति कथं प्रघोष्यते ॥ २४६॥
"