________________
-प्रदीप
[२३] सर्वथा कर्मवादश्च, निषिद्धो जैनशासने । ते च मीमांसकाज्ञेयाः,सदा मिथ्यात्विनो मताः२२६ पञ्चकारणभावेन, कार्य जैनेषु सम्मतम् । विना कारणसामग्री, कार्य किंचिन्न सिध्यति ।२३०। ईश्वरकत्तु वादिभिः, जगत्सर्व विडम्बितम् । ईश्वरेच्छा च यादृशी, तादृक् कार्य भविष्यति२३१ यस्य कस्यापि कार्यस्य, ईश्वरेच्छा नियामिका । इत्युक्त्वा सर्वजीवानां, पौरुषार्थ विनाशितम् २३२ किमर्थं पुरुषार्थो हि, कर्तव्यः केनचित्कदा । ईश्वरेच्छा विना नैव, कार्य किश्चित्प्रजायते ॥२३३॥ निः सत्त्वा उद्यमै_ना, ईशकृद्वादिना कृताः। पञ्चकारणप्रौचानः, प्रजाश्च सोद्यमी कृताः॥२३४॥ ईशोऽपि सर्वशक्तिमानुत्पादयति प्रस्तरे। कमलं किं न तद्वद्धि,वन्ध्यायाः सन्ततिं न किम्२३५ सोऽपि कारणसामय्या, निष्पादयति कृत्यकम् । अस्माभिरपि कथ्येत, कार्य कारणपञ्चतः ॥२३६॥ युक्तियुक्त प्रवक्तु णां, जैनानां दोषरोपणम् । ईशं जैना न मन्यन्ते, अतस्तेऽपि च नास्तिकाः२३७