________________
-प्रदीप
[२३५] मिथ्या कलङ्कदानेन, महत्पापं प्रजायते। सुज्ञास्तेषां प्रलापांश्च,शृण्वन्ति श्रवणे न हि॥२४७॥ मिथ्याप्रलाप जल्पाके, मिथ्यावेदानुयायिनि । जैना भावदयां चैव, चिन्तयन्ति मुहुर्मुहुः ॥२४॥ सकषायीश्वरो येषां, यमहीनाश्च साधवः । दयारहितधर्मश्च, तेषां कियद् निगद्यते ॥२४॥ ईश्वरकथितो ज्ञेयः, महाव्रती गुरुस्तथा । धर्मो दयाप्रपूर्णश्च, नान्यत्र परिप्राप्यते ॥२५०॥ आत्मादि परलोकादि, स्वर्गनरकवस्तूनाम् । धर्माधर्मादि मुक्तिश्च,शुद्धा जैनः प्रदर्शिता ॥२५॥ अस्त्यात्मा परलोकश्चेत्येवं येषां मते मतिः। त एव आस्तिका ज्ञेया अन्येसर्वे च नास्तिकाः॥२५२॥ आस्तिकमुख्यजैनाश्च, भारतेषु मताः सदा । आस्तिकाभासकाश्चान्ये,ज्ञातव्या सुखकांक्षिणा२५३ इतिश्री शास्त्रविशारद जैनाचार्य जगद्विख्यात जङ्गम युगप्रधान सूरिचक्रचक्रवर्त्ति परामाराध्य पूज्यपाद गुरुदेव श्रीविजयधर्म