________________
२३०]
योगपश्चाद् भनक्ति तत्सर्व, युज्यते तस्य तादृशम् २०२ अपि तु वीतरागस्य, ध्येयस्य परमेशितुः । क्रीडाकर्तुं न युज्येत, हास्यास्पदं महद् भवेत् २०३ निग्रहाऽनुग्रहौ तौ च, रागद्वेषस्वरूपको । दुष्टस्य निग्रहश्चैव, भक्तानुग्रह रूपकः ॥२०४॥ ईश्वरस्य इमे भक्ताः, इमे दुष्टाश्च नो कदा। रागद्वेषनिमित्तञ्च, तस्य नष्टं तु सर्वथा ॥२०॥ निग्रहानुग्रहौ तौ च, स्यातां तत्र न सर्वथा। तत्पक्षोऽपि भवेन्नैव, सर्वदेति विचार्यताम् ॥२०६॥ षष्टादि नवपर्यन्ताः, युज्यन्ते पक्षका न हि । अनादि नित्य मन्तव्ये, सुखं तु सर्वदा भवेत् २०७ दुःखं कदापि नास्त्येव, दुःखनाशाय नो भवेत् । प्रयासः परमेशस्य, स्वान्ते सर्व विचार्यताम् ॥२०॥ सर्वदा सुखमीशस्य, सुखार्थं न परिश्रमः । प्रत्यवायोऽप्यज्ञानस्य, भवेन्न परमेशितुः ॥२०॥ अतः सोऽपि भवेन्नैव, किमर्थं स प्रवर्तते। भविष्यत्प्रत्यवायस्य, सर्वे च कल्पना न हि ॥२१०॥ पक्षोऽपि दशमस्त्याज्यः, युक्ति युक्त्या न युज्यते।