________________
-प्रदीप
[२३१] जगन्निर्माणकर्त्तव्ये, यदीशस्य स्वभावता ॥२१॥ तर्हि निवर्तने तस्माद् मन्यते किं प्रयोजनम् । किन्तु स्वयं हि ईशो वै, स्वभावेन करोति सः २१२॥ मन्तव्यमिति चेशस्य, नित्यत्वव्यापकादिकम् । तद्विशेषण दातव्ये, फलं किंचिन्न सम्भवेत् ॥२१३॥ स्वभावेनैव सम्पूर्णजगच्चक्रं भ्रमत्यपि। इत्येवं जल्पनेनैव, दोषापत्तिर्न जायते ॥२१॥ एतावच्च प्रयासोऽपि, कत्तृत्वाधिष्ठिते खलु । सर्वदा सेवनीयः स्यात्साक्षित्विनि हि चेश्वरे ।२१५ सर्वज्ञे वीतरागे च, दोषापत्तिर्न सर्वथा। दृश्यतां सुविवेकेन, कारणसमवायतः ॥ २१६ ॥ कार्य सर्व प्रजायेत, तत्तु ईशेन युज्यते । ध्येयावलम्बरूपेण, ईश्वरः सर्वथा मतः ॥ २१७॥ कर्मकालस्वभावानां, नियतस्योद्यमस्य वै । बाह्याभ्यन्तरसामग्र्या, कार्यश्च मीलने मतम् ।२१८॥ कर्मणां जडरूपत्वात्फलं कुतस्तदर्पयेत् । इति प्रश्नावकाशस्यात्केषाश्चिन्मानसे यदा ॥२१॥ लोहञ्च लोहचुम्बञ्च, दूरादाकर्षयेद्यथा ।