SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [२२६] समाधानेन येनैव, सन्तोषः सर्वदा भवेत् ॥१६॥ प्रथमपक्षस्वीकारे, सृष्टिक्रमे विपर्यता। पुरुषे लक्षणं स्त्रीणां,पुरुषस्य न स्त्रीषु किम्।१६४॥ यथा रुच्या यदा सृष्टिः,रचयेदीश्वरस्तदा । तदैकनियमेनैव, किं न रचयतीश्वरः ॥१६॥ मोहाधीने च निर्माणे, यथा रुचिनि विद्यते । विपर्यासश्च दोषोऽपि,आगच्छेत्प्रथमे खलु ॥१९६॥ द्वितीयपक्षमन्तव्ये, ईशे स्वतन्त्रता नहि । अन्याश्रयाच्च कर्तव्ये,स्वतन्त्रो गीयते कथम् ।१६७ प्राणिकर्मसहायेन ईशः, सृष्टिः करोति चेत् । तदेशेन कृतं किं स्यात्कर्मकृतं तु मन्यताम् ॥१६॥ तृतीयपक्षमन्तव्ये, ईशे कृतार्थता न हि । धर्मरूपस्य कार्यस्य, ईशस्य न प्रयोजनम् ॥१९॥ धर्माधर्मक्षयाद् मुक्तिः, इति सार्वत्रिकं वचः । पुण्यरूपोऽपि धर्मश्चेद् मुक्तस्तदेश्वरो न हि ॥२०॥ नादेयश्च चतुर्थोऽपि, क्रीडा कुतूहलः खलुः । बालस्य शोभते सोऽपि, ईश्वरे नैव युज्यते ॥२०१॥ बालो धूलिगृहादिं च, यथा करोति प्रावृषि ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy