________________
[२२८]
योगयदा मुक्तत्वमीशस्य,अनादित्वं तदा नहि ॥१८॥ अनादित्वश्च मुक्तत्वं, परस्परं विरोधयुक् । कदापि नैव युज्येत, मुक्त ईशस्ततो नहि ॥१८॥ अमुक्तपक्षमन्तव्ये, किं नेश्वरास्तदा समे । अनादित्वं न मुक्तस्य,अमुक्त चेशता नहि ॥१८६॥ इमौ पक्षौ च नादेयौ, मन्येते भवताऽपि वै । नास्ति तृतीयपक्षोऽपि,किं क्रियतेऽधुना वद ॥१८७। जगन्निर्माण कर्त्तव्ये, ईश्यस्य किं प्रयोजनम् । प्रश्नादश भवेयुश्च, उत्तरं च विधीयते ॥१८॥ जगन्निर्माणकर्तव्ये, यथा रुचीश्वरेषु किम् । कारणं विद्यते तत्र, किं वा स्यात्परतन्त्रता ॥१६॥ धर्माय चाथवेशस्य, सृष्टिनिर्माणता भवेत् । क्रीडा कुतुहलाकिं वा,निग्रहानुग्रहाय किम् ॥१६॥ अथवा सुखहेतुत्वे, ईशस्य स्यात्परिश्रमः । किंवा दुःखविनाशाय,भूतविघ्नक्षयाय किम् ।१६। भावि विघ्न विनाशाय, ईस्वरस्य श्रमः खलु । किंवा स्वभावतस्तस्य, प्रवृत्तिर्जायते सदा ॥१२॥ एतेषां दश प्रश्नानां, समाधानं न विद्यते ।