________________
-प्रदीप
२२७] जगन्निर्माणकर्तव्ये,इति स्वान्ते विचार्यताम् ॥१७॥ अतः कारुण्य योगेन, सृष्टिः सृज्येत चेश्वरैः। द्वितीयस्यापि पक्षस्य,अवकाशो न विद्यते ॥१७॥ दुःखिजीवस्य दुःखस्य, दूरीकरणभावतः । करुणासैव विज्ञया,सृष्ट्युत्पत्तिस्तयान हि ॥१७७॥ प्राक्काले जगदुत्पत्तेः, देहेन्द्रियाद्यभावतः। सर्वजीवस्य सौख्यं स्याद्द :खलेशोन किञ्चन ॥१७॥ पश्चाद्दे हेन्द्रियाद्यञ्च, उत्पाद्य करुणावता । सुखीनांदुःखदातृत्वे,कारुण्यं कीदृशं मतम् ॥१७॥ देहेन्द्रियाद्यभावेन, प्राकाले सुखिनो जनाः। केषां दुःखविनाशाय, ईशेन करुणा कृता ॥१८॥ पश्चाचसृष्टिनिर्माणाद्, दृष्ट्वा च दुःखिनोजनान् । ततः करुणता जाते, दृष्टः परस्पराश्रयः ॥१८१॥ दुःखिजीवं विनिर्माय, दृष्ट्वा तान्दुःखिनो जनान् । करुणा मानसे जाता, दूरीकत प्रयत्यते ॥१८॥ अनादीशश्च मुक्तो वा, अमुक्तो वा किमुच्यते। या च्येत प्रमुक्तो वा, तदा स घटते नहि ॥१८॥ सर्वकर्मविनाशः स्यात्तदा मुक्तस्तु कथ्यते ।