________________
wrrrr
[२२६ ]
योगकिन्तु निरंतरं सृष्टिं,किं करोति जल्प्यताम् ॥१६६॥ यदेशस्य भवेदिच्छा, तदा मृष्टिं करोति सः। अन्यथा न करोतीति, ईदृशी मान्यतामम ॥१६७॥ स्वाधीनेच्छापि तस्यैव, परतंत्रः कुतो भवेद । स्वाधीनेच्छा प्रमन्तव्ये, सदोत्पत्तिस्तथैव च ॥१६॥ इच्छायाः परतन्त्रत्वे, ईश्वरः शक्तिमान्न हि । पराधीनेऽसमर्थत्वमसमर्थे कुतो भवेत् ॥१६॥ किं चेच्छा ममता रूपा, ममता लोभरूपिका । लोभः कषायरूपः स्यात्सकषायीश्वरो मतः॥१७०॥ सकषायि समीपे च, याश्चायाः किं प्रयोजनम् । न परश्च दरिद्रोऽपि, ईश्वरी कर्तुमीश्वरः ॥१७॥ कषायी जगदीशश्चेदन्येशाः किं भवन्ति न । समेऽपि सकषायित्वे, एकः स्यादपरो न हि ॥१७२॥ राजाज्ञा चेति नास्त्येव,सर्व मनसि चिन्त्यताम् । सेच्छ-ईशो न मन्तव्यः प्राणैः कण्ठगतैरपि ॥१७॥ बुद्धिमताश्च संसारे, प्रवृत्ति िप्रकारिका । स्वार्थकारुण्ययोगेन, निर्माणं जगतो मतम् ॥१७४॥ कृतार्थत्वेन स्वार्थो न, जगदीशस्य सम्भवेत् ।