________________
[२२०]
योगसर्वज्ञपक्ष स्वीकारे, द्वौ सर्वज्ञौ समागतौ । एकः संसारकर्ता वै, शास्त्रकर्ता द्वितीयकः॥११२॥ द्वयोः सार्वज्य मन्तव्ये, मूलक्षतिः समागता। ईश्वर एक एवेति, मान्यता भवतां मते ॥११३॥ द्वयोः सार्वज्य सिद्ध्यर्थ साधनानां गवेषतः । चिन्तायामनवस्थास्यादिति सर्व विचिन्त्यताम्।११४॥ शास्त्ररचयिता नैव, सर्वज्ञ इति मन्यते । अल्पज्ञ कृत शास्त्रेषु, विश्वासो नैव जायते ॥११॥ प्रमाणभूत सिद्धान्ते, विरोधस्तु कथं भवेत् । नातस्तत्रापि प्रामाण्यं, इति मनसि धीयताम् ।११६॥ मा हिंस्यात्सर्वभूतानि, महावाक्यमिदं मतम् । आलभते पशु चैव, अग्निषोमीय यज्ञके ॥११७॥ षट्शतानि नियुज्यन्ते, पशूनामध्यमेऽहनि । अश्वमेधस्य वाक्याच,न्यूनैश्चपशुभिः त्रिभिः॥११॥ नानृतं वचनं ब्रूयात् इति मिथ्या च दर्शिता॥११॥ न नर्ययुक्त वचनं हिनस्ति,
.. न स्त्रीषु राजन् न विवाह काले। प्राणात्यये सर्वधनापहारे,
पञ्चानता न्याहुरपातकानि ॥१२०॥