SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [२१६] महात्म्ये न्यूनता यायात्, स्वयं स्वगुणगानतः । महात्मनो न युज्येत,सर्वज्ञोऽहं प्रजल्पनम् ॥१०४॥ आगमो मयका चैव, कृत इति च मन्यते । अभिमानित्व सूचत्वं, वाक्यं नेशस्य शोभते ॥१०॥ तथापि यदि मन्येत, आगमश्चेश्वरैः कृतः। वाक्यसमूहकं शास्त्रं, पदसमूहवाक्यता ॥१०६॥ पदानि वर्णसन्दोहः, वर्णाः ताल्वादि सम्भवाः । स्थानं देहं तु विज्ञेयं, अशरीरे न युज्यते ॥१०७॥ अदेहोशे च स्वीकारे, खण्ड्ययुक्तिः प्रदर्शिता । जगन्निर्माणकत्तश्च शरीरं नैव सांप्रतम् ॥१०॥ अदेहस्य च मन्तव्ये, शास्त्रसिद्धिस्तुनो भवेत् । शास्त्र वर्णात्मकं सर्व, कथं तेन विरच्यते ॥१०६॥ उपायेनैव केनाऽपि, ईशकृतं न युज्यते । ईशकृतं कथं तर्हि,शास्त्रमिति त्वयोच्यते ॥११०॥ स्वीकारे चापरे पक्षे, शास्त्रकृत विभिन्नतः । शास्त्रकारश्च सर्वज्ञः, असर्वज्ञोऽथवा मतः ॥१११॥ १-युज्यते २-अन्येन ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy