________________
[२१८]
योगतादृशीं मान्यतां विना जगद्विचित्रतान वै। जगद्वौचित्र्य सिद्ध्यर्थ, तस्य सर्वज्ञता मता ॥६॥ तद्युक्तिरपि नादेया, सुहृदां हृदये खलु । विचारस्यावकाशस्तु, मीलत्यपि पदे पदे ॥१६॥ जगद्विविधता ज्ञेया, स्थिरजङ्गमभेदतः। स्थावरमपि द्वधं स्यात्सचेतनमचेतनम् ॥१७॥ सचित्तजङ्गमानाच, स्थावराणाश्च सर्वदा। स्वस्व कर्मादि सामग्र्या,वैचित्र्यं जायते किल ॥९८ जडस्थावर संसारे, वैचित्र्यं जीवकर्मतः । कारणपश्चता योग्यसाधनसम्पदां किल ॥६६॥ योगे कारण साकल्यं, अनादित्व प्रवाहतः । विज्ञेयं स्थितमस्तीति, ईशस्य न प्रयोजनम् ॥१०॥ जगचित्य सिध्यर्थ, व्यर्था चेश्वरसार्वता। तेन विनापि सर्वत्र, वैचित्रयं परिसिध्यति ॥१०१॥ अनुमानं न सिध्यर्थ, आगमं तु विचार्यते । आगम ईशकृत्किंवा,अन्येनापि कृतं भवेत् ॥१०२॥ स्वीकारे प्रथमे पक्षे, सार्वत्यसिद्धिता न वै । तदेवं दर्शयिष्यामि, शृण्वन्तु सावधानतः ॥१०॥